पृष्ठम्:शङ्करविजयः.djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
87
सप्तमस्सर्गः

संभिक्षमाणा न लभन्त एव चे-
द्गृहप्रवेशं गुरुणा प्रवेशम् ।
कथं च भिक्षा विहिता निकेतने
को नाम लोकस्य 1मुखाभिधायकः ॥ ६३ ॥

तत्त्वोपदेशाद्विदितामतत्त्वो
व्यघामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु
वादो हि तत्त्व​स्य विनिर्णयाय ॥ ६४ ॥

पुरा गृहस्थेन मया प्रबन्धा
2नैयायिकादौ विहिता महार्थाः ।
नातः परं मे हृदयं चिकीर्षु
त्वदङ्घ्रिसेवामतिलङ्घ्य किञ्चित् ॥ ६५ ॥

भावानुकारिमृदुवाक्यनिवेदितार्थं3
स्वीयैः पदैस्सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाभिनन्द्य परितोषभरादवोचत् ॥ ६६ ॥

सत्यं यदात्थ 4विनयन् मम याजुषीय-
5शाखा तदन्तगतभाष्यानिब​न्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६७ ॥

तद्वत्त्वदीया खलु काण्वशाखा
ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकञ्चापि विधेयमिष्टं
परोपकाराय सतां प्रवृत्तिः ॥ ६८ ॥


1अ. अपिधायकः । 2अ. यन्न्यायगर्भा ।

3अ. निवेशितार्थं । 4का. विनयी ।

5अ. तदग्र​ ।अ. अपिधायकः । ॐ अ. निवेशितार्थे । तद्वत्वदाया रवलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम । तद्वार्तिकश्चापि विधेयमिष्ठ परोपकाराय सतां प्रवृत्तिः ॥ ६८ ॥ तदग्र । अ. यन्यायगर्भा ।

  • का. विनयी ।