पृष्ठम्:शङ्करविजयः.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
90
शङ्करविजये


जन्मान्तरार्जितमघं फलदानहेतो-
र्व्यध्यात्मना जनिमुपैति न नो विवादः ।
साधारणादिह च वा परदेशके वा
कर्म ह्यभुक्तमनुवर्तत एव जन्तम् ॥ ८१ ॥

इह स्थित वा परतःस्थितं वा
कालो न मुञ्चेत्समयागतश्चेत् ।
तद्देशगत्यामृत देवदत्त
इत्यादिकं मोहकृतं जनानाम् ॥ ८२ ॥

मन्वादयो मुनिवराः रवलु धर्मशास्त्रे
धर्मादि 1सङ्कुचितमाहुरातिप्रकृष्टम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां
शौचाद्यतिक्रमकृतं प्रभवेदघं ॥ ८३ ॥

देवेऽनुकूले विपिनं गतो वा
समाप्नुयाद्वाञ्छितमन्नमेषः ।
हियेत नश्येदथ वा पुरस्थं
तस्मिन्प्रतीपे तत एव सर्वम् ॥ ८४ ॥

गृहं परित्यज्य विदेशगों ना
सुरवं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृतिं पुरस्तात्
2सदागमादत्र च निमित्तम् ॥ ८५ ॥

देशे कालेऽवस्थितं तद्विमुक्तं
ब्रह्मानन्दं प२थतां तत्र तत्र ।
चितैकाग्र्ये विद्यमाने समाधि
स्सर्वत्राप्तौ दुर्लभो नेति मन्ये ।। ८६ ॥


1 अ. आहुरिति प्रसिद्धम्; कः आहुरतिप्रवृद्धम् 2 अ. तदागमत्।

2 अ. तदागमात् ।