पृष्ठम्:शङ्करविजयः.djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

x

शङ्कराचार्यचरितनाम्नि श्रीगोविन्दनाथप्रणीते प्रबन्धे प्रथमे कथासंक्षेपात्मन्यध्याये पद्यमिदं संदृश्यते--

"सर्वागमास्पदं वन्दे व्यासाचलमिमं कविम् ।
बभूव शङ्कराचार्यकीर्तिकल्लोलिनी यतः” ॥ इति ॥

केरलीयशङ्करविजयनाम्नि प्रबन्धे पद्यमिदं संलक्ष्यते-

“अत्युन्नतस्य काव्यद्रोर्व्यासाचलमहीरुहः ।
अर्थप्रसूनान्यादातुमसमथोंऽहमद्भुतम् ” ॥ इति ॥

तदेभिः पद्यैः न केवलं प्रबन्धस्यास्यातिप्राचीनत्वं परमाविष्कृतं यावता निरुपममहिमत्वमप्यस्यावेद्यत एव । सुस्फुटञ्चायमर्थो माधवाचार्येः कण्ठरवेणाप्युक्तोऽन्यत्र प्रथम एव सर्गे--

"नेता यत्रोल्लसति भगवत्पादसंज्ञो महेशः
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाद्यैः ।
यत्राविद्यक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः” ॥ इति ॥

अत एव च श्रीमाधवाचर्यैरेव ग्रन्थादमुष्मात् संघशः सर्गशश्च तत्र तत्रानूदिताः स्वग्रन्थे ​ब​हवः श्लोकाः ।

तत्तादृशोऽयं प्रवन्ध इदानीमपि वा प्राकरयं नीयत इति महदिदं प्रमोदनिदानमस्माकं भारतीयानाम् ।

‘सर्गबन्धो महाकाव्यमुच्यत' इत्युक्तनयेन द्वादशसर्गबन्धात्मासौ प्रबन्धः काव्यविभागेषु महाकाव्यतापदमधितिष्ठति ।

'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’ इत्युक्तनयेषु वस्तुनिर्देशात्मकमत्र मङ्गलमाचरितं दृश्यते - यथा --

"कालव्याख्ये ग्रामवर्ये द्विजाग्र्यः
सत्सन्तोषी केरलेष्वातिथेयः ।
जज्ञे कर्ता कर्मणां चोदितानां
त्यक्ता नित्यं निन्दितानां विनीतः” ॥ इति ॥