पृष्ठम्:शङ्करविजयः.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
97
सप्तमस्सर्गः

स तु जनो नयति स्म मृतं पुरे
हरिबलाश्रयणेन निगर्वितः ।
हरिजनान्न पराजितिरस्ति व-
स्स हि 1पतिर्जगतोऽस्य ममापि च ॥ १२३ ॥

किमपि नेच्छति कर्तुमुदारधी
2स्सति नये तदतिक्रमणेन सः ।
यदि करोति तथापि 3समीक्ष्य तं
हरिगुरुं सहनीयमुपाहितम् ॥ १२४ ॥

परिजनं रहसि स्थितमन्वशा-
त्पितृपतिः 4पितृवत्सलवत्सलम् ।
कुरुत यत्स्वपतेर्हितमादरा-
दितरदुज्ज्झत कृत्यपरायणाः ! १२९ ।।

पशुपतिर्मधुजित्कुलदेवते
नमत मामेिव ते प्रतिवासरम ।
तदुभयाश्रितमुक्तिपुरादिकं
त्यजत सज्जनसेवितमद्भुतम् ।। १२६ ।।

हरिहराङ्घ्रिसरोजनिषेविण-
स्त्यजत मानवियोगगतान्परम् ।
मम निदेशमनन्यगतात्मनः
परिजनाः परिपश्यत सादरम् ॥ १२७ ।।

शिवशिवेति वदंस्त्यजतीह य-
स्तनुमिमां बहुपुण्यसमाश्रयाम् ।
विपिनगस्त्वथ वा गृह्संश्रय
स्त्यजत दूरत एव गतैनसम् । १२८ ॥


1.   क। गतिः ।
2.   का। स्थितिनयः ।
3.   अ। समीक्षितम् ।
4.   अ । वत्सकः ।

Sankara-7