पृष्ठम्:शङ्करविजयः.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
100
शङ्करविजये

यो वा प्रतिश्रुत्य पुनर्न दत्ते
दत्तं पुनर्वा हरते स्म योऽपि ।
तावप्युभौ दुर्विधतां प्रयात:
प्रेत्याशु पात्यौ निरयं महान्तम् ! १४१ ॥

द्विजस्य हत्या गुरुतल्पसेवा
पानं सुरायाः कनकस्य चौर्यम् ।
तत्कर्तृसङ्गश्च महान्ति शास्त्रे
पञ्चातिपापानि निनिष्कृतीनि ।। १४२ ।।

कृतोपकारं न हि वेत्ति यश्च
विश्वासिनं घातयतीह यो वा ।
1निष्कृतिश्चोदितमस्ति शास्त्रे
तयोस्तु तद्दुर्गतिरेव साक्षात् ॥ १४३ ।

इत्थं भृत्यानन्वशाद्धर्मराज-
स्तञ्च खेभ्यो भिक्षुराजशशंस ।
तन्माहात्म्ये वर्णिते क्षेत्रवर्ये
भक्तिः श्रद्धा जायते मानुषाणाम् ।। १४४ ॥

प्रत्यादेशि च यत्र देहकरणप्राणात्मनामात्मता
लक्ष्याथैक्यमुदीरितं शिवगुरुः प्राशंसि शिष्यार्ययो: ।
सैवादो विजयेऽत्र शङ्करपदे सगों गनस्सप्तमो
यत्राभाणि च काञ्चिका समहिमा श्रीकालहस्तीश्वरः ॥ १४९ ।।

इति श्रीशङ्करविजये व्यासाचलीये


सप्तमसर्गः ।



1.  अ निष्कृतेः । अ. निष्कृतेः ।