पृष्ठम्:शङ्करविजयः.djvu/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

xi

“इतिहासकथोद्भुतमितरद्वा सदाश्रयम्’ इत्युक्तोभयात्मकमप्यस्य कथाव​स्तु भवतीत्यन्यतोऽस्य वैशे​मप्यङ्गीकार्यं यत एतत्कथावस्तु शिवरहस्येक्तंभगवत्पादाश्रयमपि ।

‘चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्’ इत्युक्तलक्षणकाव्यलक्षणसम्पतिस्त्व​त्रानुक्तिसिद्धैवेति न सा विस्तार्यते ।

"नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदय​व​र्णनैः ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥
सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम्" ।

इत्युक्तशेषलक्षणान्यशेषाण्यपि महाकन्येऽत्र सुसङ्गतानीत्यापादचूडं काव्यमिदं विमृशतां सहृदयानां तत्राल​सानामप्यत्रैव संयोजितां विस्तृतविषयानुक्रमणीं प्रपश्यतां करतलामलकमिति नात्र तद्विव्रियमाणतापदमुपयातम् । अथापि यदि द्वित्राण्यत्रासङ्गतानीति केचिद्विवदेरन्नासौ दोषाय । यतो दड्याचायैरेवोक्तमेवम् -

"न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः” ॥ इति ॥

एवं शब्दार्थगुणालङ्कारादिसम्पत्तिरप्यत्र पुष्कलैव सहृदयहृदयाभिरञ्जनीति नाधिकमितोऽस्ति वक्तव्यमवाशिष्टमित्यत्रैतावतैवोपरम्यते ।

प्रतिसर्गप्रमेयोऽत्र मुख्यो विषयः कविनैव सुसङ्गृहीतः । यथा --

यत्राभाणि गुरोः सुवेदपठनं वेदार्थवित्त्या समं
संवादो गुरुशिष्ययोरभिहितो गार्हस्थ्यकर्माण्यथ ।
दम्पत्योः सुतदृष्ट्युपायकरणे संवाद उक्तस्ततः
काव्ये शङ्करदेशिकेन्द्रविजये सर्गोऽयमाद्योऽगमत् ॥ १ ॥