पृष्ठम्:शङ्करविजयः.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
110
शङ्करविजये

सायंप्रातर्वह्निकार्यं वितन्वन्
मज्जंस्तोये 1दण्डकृष्णाजिने च ।
धृत्वा वर्णी वेदवाक्यान्यधीयन्
क्षुध्यन् शीघ्रं गेहिनो गेहमेति ॥ ५५ ॥

उच्चैश्शास्त्रं भाषमाणोऽपि भिक्षु-
स्तारं मन्त्रं संजपन् वा यतात्मा ।
मध्येऽजस्रं जाठराग्नौ प्रदीप्ते
दण्डी नित्यं 2गेहिनो गेहमेति ॥ ५६ ॥

यदन्नदानेन निजं शरीरं
पुष्णंस्तपोऽयं 3क्रमते सुतीव्रम् ।
कर्तुस्तदर्घं ददतोऽन्नमर्घ​-
मिति स्मृतिस्संववृतेऽनवद्या ॥ ५७ ॥

पुण्यं गृहस्थेन विचक्षणेन
गृहेषु सञ्चेतुमलं प्रयासात् ।
विनापि तत्कर्तृनिषेवणेन
तीर्थादिसेवा वहुदुःखसाध्या ॥ ५८ ॥

गृही धनी धन्यतरो मतो मे
तस्योपजीवन्ति घनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चित्
दानेन कश्चिद्ब​लतोऽपि कश्चित् ॥ ५९ ॥

सन्तोषयेद्वेदविदं द्विजं य-
स्सन्तोषयत्येव स सर्वदेवान् ।
तद्वेदिविप्रे निवसन्ति देवा
इति स्म साक्षाच्छ्रुतिरेव वक्ति ॥ ६० ॥


1का. दण्डकृष्णाजिनं च। 2गेहतो ।

3अ. कुरुते ।