पृष्ठम्:शङ्करविजयः.djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
111
अष्टमसर्गः

स्वधर्मनिष्ठा विदिताखिलार्था
जितेन्द्रियास्सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त
आयान्ति सर्वे गृहिणो गृहाय ॥ ६१ ॥

गृही गृहस्थोऽपि तदश्नुते फलं
यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थं गृहमेव कीर्तितं ।
धनी वदान्यः प्रवसेन्न कश्चन ॥ ६२ ॥

अन्तःस्थितं मूषिकमुख्यजीवा
बहिःस्थितं गोमृगपक्षिमुख्याः ।
जीवन्ति जीवास्सकलोपजीव्या-
स्तस्माद्गृही सर्ववरो मतो मे ॥ ६३ ॥

शरीरमूल पुरुषार्थसाधनं
तञ्चान्नमूलं श्रुतितोऽवगम्यते ।
तञ्चान्नमस्माकममीषु संस्थितं
सर्वं फलं गेहपतौ1 समाश्रितम् ॥ ६४ ॥

बवीमि भूयः 2शृणुतादरेण ।
गृहाऽऽगतं पूजयताऽऽतुरातिथिम् ।
सम्पूजितो वोऽतिथिरुद्धरेत्कुलं
निराकृतात्किं भवतीति नोच्यते ॥ ६५ ॥

विनाभिसन्धिं कुरुत श्रुतीरितं
कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनया गतैनमां
खान्तस्य शुद्धिर्भविता चिरेण वः ॥ ६६ ॥


1का. पतिद्रुमाश्रयम् । 2अ. श्रुतमादरेण।