सञ्चिन्तयन्निति कुशासनसंनिविष्टो
ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्
संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ ७९ ॥
आगच्छदात्माभिमुखं निरीक्ष्य
सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकास्मदृश्यतैत-
न्महाप्रभामण्डलमध्यवर्ति ॥ ८० ॥
मध्ये प्रभामण्डलमैक्षताञ्चितं
शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनिं
प्राबोधि कुम्भोद्भवमादराज्जनः ॥ ८१ ॥
अगस्त्यमृग्यो1 रघुनन्दनस्तत-
स्स्वखेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां
क्षिणेति खेदं रविवन्महत्तमः ॥ ८२ ॥
सभार्यमर्घ्यादिभिरर्चयित्वा
रामस्तदङ्घ्रि शिरसा ननाम ।
तूष्णीं मुहूर्तं व्यसनार्णवस्थो
धृतिं समास्थाय पुनर्बभाषे ॥ ८३ ॥
दृष्ट्वा भवन्तं पितृवत्प्रमेदि
यन्मां भवान् दुःखमहार्णवस्थम् ।
स्वयं समागात्कृपयेह तस्मा-
न्मन्ये ममात्मानमवाप्तकामम् ॥ ८४ ॥
1अ. दृश्यो ।