पृष्ठम्:शङ्करविजयः.djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
118
शङ्करविजये

तत्क​क्षवाय्वभिहतास्तरवो निपेतु-
1स्संत्रासिताः स्म निपतन्ति महीरुहोऽन्ये ।
तोयोज्झितं तलमदृश्यत निम्नगानां
वेगेन तस्य महता पृथुपङ्कशेषम् ॥ १०३ ॥

विज्ञाय देशमतिलङ्घित​मुत्पतिष्णुः
श्रीनर्मदातटमसौ पुनराससाद ।
लिङ्गं ततो सृगयितुं सलिलं जगाहे
नापश्यदुत्तममनुत्तमवायुसूनुः ॥ १०४ ॥

चिरायमाणे मरुतस्तनूजे
मुहूर्त​काले परिवर्तमाने ।
अगस्त्यमाचष्ट रघूत्तमोऽसौ
किमत्र कार्यं भगवन् 2ब्रवीतु ॥ १०५ ॥

प्रतीक्ष्यमाणे तनये नभस्वतो
मुहूर्तकालस्त्व​तियाति दुर्लभः ।
लिङ्गान्तरञ्चेह न दृष्टिगोचरं
संप्राप्तमस्मान्व्यसनं सुदुस्तरम् ॥ १०६ ॥

अथाब्रवीत्सङ्कटमुद्दिघीर्षुः
पुरातनं लिङ्गमिहास्ति 3पुण्यम् ।
प्रपूजयैनं महिते मुहूर्ते
त्वन्नाथनाम्ना भविता पृथिव्याम् ॥ १०७ ॥

इदमेव युगान्तरेऽर्चितं
भवता लिङ्गमनुत्तम शिवम् ।
पञ्चाक्षरप्रोक्तविधानमाश्रयं
ननाम तुष्टाव च तत्पदाम्बुजम् ॥ १०८ ॥


1अ. संताडिताः स्म । 2अ. भगवान् ।

3अ. पूज्यं ।