पृष्ठम्:शङ्करविजयः.djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
अष्टमस्सर्गः

अथाविरासीद्ध​नुमान् सलिङ्ग-
श्चुकोप लिङ्गान्तरपूजनेन ।
आनायि लिङ्गं महतः प्रयत्ना-
द्विदूरदेशातदुपेक्षितं हा ॥ १०९ ॥

रुषितं हनुमन्तमूचिवान् रघुनाथः कृपयार्द्र​मानसः ।
किमु रुप्यसि व​त्स कारणं हनुमंल्लिङ्गमपूजि पूजितम् ॥ ११० ॥

अगस्त्यवाचा परिपूजितं मया
मुहूर्तकालाय भवत्यनागते ।
बिभेमि किञ्चिद्व्यसनोपसर्पका-
द्भवान् सदा मे व्यसनापसर्पकः ॥ १११ ॥

यदत्र कार्ये भवता तदीयं
वदात्र कार्यं तदहं विघास्ये ।
नेक्षेऽस्य कोपस्य महन्निदानं
प्रधानकार्येऽविदिते हि कोपः ॥ ११२ ॥

मदागमात्पूर्वमपूजि यत्त्व​या
लिङ्गं तदुद्धृत्य मदीयलिङ्गके ।
संस्थापिते शाम्यति मामकं मनो
नो चेच्छ्र​मो मे भविता निरर्थकः ॥ ११३ ॥

मया 1हनूमन्कृतलिङ्गचालनं कर्तुं न शक्यं मनसापि जीवता ।
त्वयैव कार्यं स्थितलिङ्गचालनं संस्थापनं तावकलिङ्गगोचरम् ॥ ११४ ॥

उच्चकर्ष किल पुच्छवेष्टितं लिङ्गमद्भुतबलोऽथ वानरः ।
उद्ध​रन् बहुविधेन कर्मणा संतताम वसुधा चचाल च ॥ ११५ ॥

क्षोभमीयुरथ वारिराशयः पेतुरुच्छ्रितनगाश्च​कम्पिरे ।
पर्वतास्सवननिम्न​गाः परं नाचलद्विपुललिङ्ग2मण्वपि ॥ ११६ ॥


1अ. स्थित​ 2का. मण्टपम् ।