पृष्ठम्:शङ्करविजयः.djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
124
शङ्करविजये

आकर्ण्य​ देववचनं हनुमान्प्रतीतः
प्रातिष्ठिपत्तदनु लिङ्गमनुत्तमं तत् ।
सम्यङ्मुहूर्तमनुसृत्य रघूत्तमोक्त्या
तद्वायुजेश्वरसमाह्वयमेतदासीत् ॥ १४० ॥

यत्राद्धापि च​ पुण्डरीकनगरं कावेरिकामाधवौ
पश्चान्मातुलमन्दिरस्य गमनं सम्भाषणं ज्ञातिभिः ।
पुस्तस्थापनरामनाथचरिते संप्रोदिते यत्न​तः
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽष्टमः प्रस्थितः ॥ १४१ ॥

॥ इति श्रीशङ्करविजये व्यासाच​लीये अष्टमस्सर्गः ॥