पृष्ठम्:शङ्करविजयः.djvu/१५

पुटमेतत् सुपुष्टितम्

xiii

यत्रागस्त्यसुराङ्गनाविवदनं चापस्य कोट्याह्वये
तीर्थं वर्णितमुग्र​भैरवजयः श्रीतोटकस्येडनम् ।
श्रीमच्छङ्करदेशिकेन्द्रविजये व्यासाद्रिणा निर्मिते
सर्गोऽयं नवमो गतोऽत्र महिमा सानन्दनो नन्दनः ॥ ९ ॥
तीव्रव्याधिनिरोधनाय भिषजां दृष्ट्यै विदेशभ्रमः
शिष्याणामुदयो रवेर्जलनिधिः सह्याद्रिणा वर्णितः ।
वासन्तः शुचिना समं वनजलक्रीडादि यस्मिन् स वै
सर्गोऽयं दशमोऽत्र शङ्करजये व्यासाचलीये गतः ॥ १० ॥
प्रावृड़ यत्र समं शरद्वनितया संवर्णिता विस्तृतं
हेमन्तः शिशिरेण देशिकवरप्राप्तिर्महीवर्तिनाम् ।
नानाव्याधिक्कृतां निवृत्तिरमुना हूतिश्च नासत्ययो-
र्यातः शङ्करदेशिकेन्द्रविजये सर्गोऽयमेकादशः ॥ ११ ॥
यत्रोच्यते वादिगुणानुयोग-
व्याजेन सिद्धान्तमहारहस्यम् ।
स द्वादशोऽगाद्विजयेऽत्र सर्गः
श्रीशाङ्करे व्यासगिरिप्रणीते ॥ १२ ॥

एतद्ग्र​न्थकर्तुर्व्यासाचलस्य चरितादिकमधिकृत्य विस्तरेणात्र वा ग्रन्थान्तरेषु वा स्फुटं नोपलभ्यत इति न तद्विचारे वियद्वितानकल्पनकल्पे प्रयत्यते ।

तथापि यत्किञ्विदिदमितिवृत्तं यत्पुरा श्रीयुतआत्रेयकृष्णशास्त्रिचरणैः शङ्करगुरुपरम्परानाम्नि निबन्धे द्राविडभाषया प्रकाशितं तदत्र भाषान्तरानुवादेन समुपस्थाप्यते ।

ग्रन्थकृदसावतीतेषु सर्वज्ञात्मेन्द्रसरस्व​त्युपक्रमेषु पञ्चममहादेवेन्द्रसरस्व​तीपर्यन्तेषु पञ्चाधिकषष्टिसंख्याकेषु जगद्गुरुषु द्विपञ्चाशत्तम इति अष्टनवत्युत्तरचतुश्शताधिकसहस्रपरिमितात् क्रैस्तवाब्दादारभ्य सप्तोत्तरपञ्चशताधिकसहस्रपरिमितक्रैस्तवाब्दपर्यन्तं (1498–1507 A.D.) श्रीकाञ्चीकामकोटिपीठमध्यतिष्ठदिति सप्तोत्तरपञ्चशताधिकसहस्रपरिमिते च क्रैस्तवेऽब्दे (1429 शालिवाहन शक) विजयनगरराज्ञा नरसिह्म​देवरायेणास्मै किञ्चित्ताम्रशासनं प्रत्तमिति च