पृष्ठम्:शङ्करविजयः.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
126
शङ्करविजये

मर्त्यो न शक्त​ इह सञ्चरणाय​ किं वा
योग्यत्वमेत्र मनुजस्य​ न वेत्युदीर्यम् ।
तच्च​ द्वयं खलु न सङ्गममैव युक्त्या
शक्तिर्न​ चेत्कथमिहागम​नं मम स्यात् ॥ ६ ॥

योग्यत्व​धर्मविरहोऽस्ति न चापि देव्य
स्सर्वत्र भूसुरज​ने ह्यधिकार​ एव ।
विप्राधिकारमखिलं खलु शास्त्रजातं
विप्रा वदन्ति निगमार्थविदो महान्तः ॥ ७ ॥

देवस्समोऽयमुभयोरपि दिव्यवध्वः
मर्त्य​स्य देवनिवहस्य​ न काचिदत्र ।
संशीतिरस्ति यदिवेह सदाशिवोऽयं
पक्षे पतेत्पतितमेव​ मनुष्यजातम् ॥ ८ ॥

सख्योऽपसारयत दुर्व​चनाधिराजं
वारांनिधौ क्षिपत वा कुरुतात्मनाथाम् ।
कुण्डीं विशुद्धसलिला1मपि यात शीघ्रं
क्षेत्नं यथा न पुनरेति तथा 2विधेयः ॥ ९ ॥

उक्तोऽप्ययं परुषवाक्यमनिन्दितात्मा
प्रोचे न किञ्चिदपि शांतमना जगाम ।
गच्छन्नसौ पथि निरूपितवानथेदं
क्षेत्रं तदा मनुजयोग्यमिद3 करिष्ये ॥ १० ॥

रामे प्लवङ्गसहिते प्रतियाति लङ्कां
तत्प्राप्तिमार्गमनुपश्यति कुम्भजातः ।
ग​न्धाद्विमन्तरगतं प्रविधाय सेतुं
प्राबन्धयज्जलनिधौ मुनिराप्तकार्यः ॥ ११ ॥


1का. मपयात । 2अ. विधेयम् ।

3अ. अहं ।