पृष्ठम्:शङ्करविजयः.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
128
शङ्करविजये

यः पातकी व्रजतु कीर्तयतु स्वपापं
छत्रादि वर्तवतु जीवतु मैक्षवृत्त्या ।
रामस्य कीर्तिमिव मूर्तिमतीं स पश्येत्
सेतुं भवाब्धितरणेऽपि च सेतुभूतम् ॥ १८ ॥

श्रीगन्धमादनगिरौ किल वारिराशौ
स्नात्वानुघस्त्रमनुतर्प्य​ च देवतादीन् ।
संदृश्य​ गन्धकुसुमादिभिरर्चयेद्यः
श्रीरामनाथमभिवान्छितमेति मर्त्यः ॥ १९ ॥

नापर्वणीति वचनं न निषेधतीह
स्रानं तदन्यविषयं पुरुषोत्तमादेः ।
तस्मात्प्रशस्तमिह​ माघनिमज्जनञ्च​
कुर्वीत पुण्यदिवसेष्विह पुण्यमिच्छुः ॥ २० ॥

सूर्योपरागदिवसे विहितोपवासः
स्नात्वा पुमान्यदि ददीत किमप्यनन्तम् ।
सेतौ गवादि ददतो न फलं गणेयं
शेषेण नैकलपनेन किमन्यमर्त्यैः ॥ २१ ॥

सेतुर्वरो विविधपातकपुञ्जहन्ता
शैलोऽपि तत्र रघुनन्दननामधेयः ।
यत्रापि सेतुमभिनद्भगवान् स कोट्या
चापस्य तीर्थमिदमुत्तममाहुरार्याः ॥ २२ ॥

1क्रुध्यन्प्रभुं निहतवानपि2 राक्षसेन्द्रं
तद्बुद्धिमांस्त्रिषु पदेषु बिभेद सेतुम् ।
नूनं स्वकीयघ​नुषा न 3तु राक्षसाना-
मत्रागमं निविविवारयिषुः प्रभुत्वात् ॥ २३ ॥


1का. प्रभुः । 2 अ. अधि ।

3अ. ननु ।