पृष्ठम्:शङ्करविजयः.djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
133
नव​मस्सर्गः

स मन्त्रसिद्धो नृहरेर्नृसिह्मो
बभूव रोषाद्विनिहन्तुकामः ।
ददार तं क्रूर 1नखो नखाग्रे
र्यथा हिरण्यं 2परिपात्य​भक्तम् ॥ ४९ ॥

तद्रोमकूपेषु स​मं हुताशः
प्रजज्वलुर्भीषितसर्वलोकाः ।
ज्वलन्सहेतिभृशमुत्पपात
प्रासादमुख्यं विहिताट्टहासः ॥ ५० ॥

प्रसादमारुह्य​ स सिंहनादं
ननाद चोच्चैर्भुवनं 3वितेने ।
पृथ्वी चकम्पे भुवनान्तरीया
वार्धिस्तथाद्रिर्द्युसतोऽप्यवीक्षन् ॥ ५१ ॥

आकर्णयंस्तं निनदं बहिर्गता
उपागमन्नाकुलचित्तवृत्तयः ।
व्यलोकयन्भैरवमग्रतो मृतं
ततो विमुक्तञ्च​ गुरुं सुखोषितम् ॥ ५२ ॥

कल्पान्तरुद्रमिव वह्निकणान्वमन्तं
सिंहाकृतिं झटिति विस्मृतमर्त्यभावम् ।
तुष्टाव तं गुरुवरः शमयन्रुषाग्निं
वाक्पाथसा जगदिदं परिपातुमिच्छन् ॥ ५३ ॥

नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवद्रुषा ॥ ५४ ॥


1का. तरैः । 2अ. परियान् ।

3का. विधाय ।