पृष्ठम्:शङ्करविजयः.djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
135
नवमस्सर्गः

नरहरे तव नामपरिश्रवात्
प्रथमगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभो सुरनायका
न हि पुरःस्थितये प्रभवन्त्यपि ॥ ६१ ॥

द्विजकुलं श्रुतिराह तवाऽऽस्यजं
नृपकुलं तव बाहुयुगोत्थित​म् ।
विशमिमं नरसिह्म तवोरुजं
चरणजं वृषलं चरमं विंदुः ॥ ६२ ॥

श्रुतिसमीरितकर्मफलेक्षण-
प्रतिभुवं 1प्र​विहाय विदं जनम् ।
यजति देव भवन्तमिहादरात्
न हि यजिः फलदा क्षमतेऽध्रुवा ॥ ६३ ॥

सर्वार्थसाधनविधावदशप्रदीप-
मन्विष्य दैत्यहतमेष भवांस्तिरोगम् ।
पुंयोगदोषविरहात्खत​ एव मान-
मादाय मत्ख​तनुराहृत वेदराशिम् ॥ ६४ ॥

भूत्वा पयोधिमथने कमठः पुरा त्वं
संमज्जतो नु मथिमन्दरपर्वतस्य ।
पृष्ठं व्यदाः सकललोकहितं चिकीर्षुः
श्रीमन्नुनुत्सुरिव​ गात्रगतां च कण्डूम् ॥ ६५ ॥

दंष्ट्रान्तरे भुवमिमां जलधौ निमग्ना
मारोप्य मार्गगतदैत्यवरं निहत्य ।
उद्धृत्य​ पूर्वमिव तां समतिष्ठिपत्स्वां
भूदारमूर्तिरुदमज्ज​दुदन्वतोऽग्रे ॥ ६६ ॥


1अ. प्रविधाय विदन् जनः ।