पृष्ठम्:शङ्करविजयः.djvu/१६

पुटमेतत् सुपुष्टितम्

xiv

विज्ञायते । काञ्चीपुरं चास्य जन्मभूमिः। पूर्वाश्रमेऽस्य कुप्पण्ण इति नाम । चरमे स्वाश्रमेऽस्याकृतकं नाम महादेवेन्द्रसरस्व​तीति । व्यासाचलनाम्नि पर्वतेऽसौ गुहां काञ्चिदुपाश्रित्य तपश्चरन्नन्तेऽक्षयनाम्नि हायने आषाढकृष्ण​प्र​थमायां समाहितसिद्धिमुपगत इति पर्वतनामाप्यस्य नाम्ना संयोज्य व्यासाचलमहेन्द्रसरस्वतीति पर्वतनाम्नैव व्यासाचलेन्द्र इति व्यासशैलमुनिरिति व्यासद्रिरिति व्यासागिरिरिति चासौ विख्यातः । अत एवैतदारचितं शङ्करविजयनामेदं काव्य​पि व्यासाचलीयमिति प्रथामुपगतमिति ।

 एतद्ग्रन्थमुद्रापणे आदर्शतयोपयुक्ताः षट् कोशाः ।

 तत्र कोशद्वयं मद्रपुरराजकीयप्राच्यहस्तलिखितपुस्तकभाण्डागारस्थं सम्पूर्णं पत्रात्मकम् । (R. 6833 and R. 7715)

 तञ्जानगरविराजमानशरभजीसरस्वतीमहाल्कोशस्थानस्थस्तालपत्रात्मा तृतीयः (4209) ।

 मद्रनगरविराजमानाडयार्कोशस्थानस्थः पत्रात्मा तुरीयः। (40-A-89)

 पाठान्तरनिदर्शनेऽयमेव ‘अ’ इति निर्दिष्टः ।

 कुम्भघोणविराजमानश्रीकाञ्चीकामकोठिमठालयीयकोशस्थानस्थस्तालपत्रात्मा भागद्वयात्मकः पञ्चमोऽसमग्रः (298 and 1897) तत्र प्रथमे भागे आदित​ आरभ्य नवमसर्गीयनवषष्टितमलोकान्तो ग्रन्थभागो वर्तते । ततो द्वितीये सप्ततितमश्लोकादारभ्यैकादशसर्गान्तस्ततो द्वादशे एकविंशतितमश्लोकादारभ्य सप्तषष्टितमश्लोकान्तश्च भागो वर्तते ॥ पाठान्तरनिदर्शनेऽयमेव 'क' इति निर्दिष्टः ।

 तत्रस्थ एव पत्रात्मा षष्ठोऽन्तिमश्लोकत्रयहीनोऽदत्तकोशस्थानसंख्यः ॥

 पाठान्तरनिदर्शनेऽयमेव ‘का’ इति निर्दिष्टः ॥

 अन्ते चैतद्ग्र​न्थमुद्रापणाय मुद्रणयोग्यमातृकानिर्माणनानाग्रन्थपरिशीलन-पाठशोधनविषयानुक्रमणीश्लोकानुक्रमणीनिर्माणादिकर्मकरणेन साहाय्यमाचरितवतामेतत्कोशस्थानस्थपण्डितपदमधितिष्ठतां श्रीयुतानां व० रा० कल्याणसुन्दर, ना० श० रामानुज, वैद्यनाथ, विश्वनाथमहाशयानां तत्तत्कोशदानेनोपकृतवतत्तत्कोशनिर्वाहकाणाञ्च आवेद्यते कृतज्ञतेति शम् ।

मद्रपुरी
इत्थम्
 
३-११-१९५३
ति. चन्द्रशेखरः