पृष्ठम्:शङ्करविजयः.djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
138
शङ्करविजये

भूयश्चानकदुन्दुभेर्नरहरे श्रीरोहिणीग​र्भगो
1दुष्टाक्रान्तधरार्थिनों हलधरः श्रीरामसंज्ञोऽभवः ।
हालापानमदान्धकारितमनास्संरक्तनेत्रो युवा
कालिन्दीं विमला2म्भसं हलमुखेना3कर्ष मूचेजुषा ॥ ७९ ॥

तस्मादेव सुरार्थितस्सुरहितं कर्तुं विकारोज्झितो
देवक्यामजनिष्ट दुष्टनृपतिव्याजेन जातान्भुवि ।
दैत्यान्हन्तुमनाः पदाब्जशरणांस्त्रातुं दयालुब्धवान्
हत्वा कंसममोचयञ्च जनकं सर्वान्यदून्वर्धयन् ॥ ८० ॥

विप्रेषु दूरचरितेषु कलौ विवृद्धे
नष्टोत्तरे 4च निजवर्त्मनि धर्महानौ ।
कल्क्याख्यया द्विजवरस्य गृहे विशिष्टे
सर्वं पुनर्नवयितुं भवितासि देव ॥ ८१ ॥

देवावतारतनवः कथिता दशेह
कष्टं विनाश्य शुभया दृशया अवन्तु ।
पृथ्व्यादिभूतगणव​5त्परितोषनिष्ठा-
स्ताभ्यो नमो जगदमूः परिपालयन्तु ॥ ८२ ॥

एवं विशिष्टनुतिभिर्नुहरौ प्रशान्ते
स्वं भावमेत्यं मुनिरेष बभूव शान्तः ।
स्वप्नानुभूतमिव शान्तमना 6स्तमेन-
मात्मानमात्मगुरवे प्रणतश्चकार ॥ ८३ ॥

चित्तानुवर्ती निजधर्मचारी
भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य
यं तोठकाचार्यमुदाहरन्ति ॥ ८४ ॥


1अ. दैत्या । 2अ. हसन् ।

3अ. आकृष्ट आवीरुषा । 4अ. निगमवर्त्मनि ।

5का. परितोऽपि । 6अ. स्व ।