पृष्ठम्:शङ्करविजयः.djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ दशमस्सर्गः ॥


भगन्दरव्याधिनिपीडितं गुरुं
निरीक्ष्य शिष्यास्समबोधयञ्छनैः ।
नोपक्षणीयो भगवन्महामयः
संपीडयन् शत्रुरिवर्धिमाप्नुयात् ॥ १ ॥

ममत्वहानाद्भवता शरीरके
न गण्यते व्याधिकृतेतिरीदृशी ।
पश्यन्त एवान्तिकवर्तिनो वयं
भृशातुरा 1दुस्सहतद्व्यथासहाः ॥ २ ॥

चिकित्सका व्याधिनिदानकोविदा
स्संपृच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संप्रतिय​न्ति पुरुषा
2जीवातुवेदं गदितार्थसिद्धयः ॥ ३ ॥

3निर्देशमात्राद्भगवन् भिषग्वरान्
यतः कुतश्चिद्वयमानिनीषवः ।
सन्देशमात्राद्भवतो धुतैनसो
निशम्य नागच्छति नाम कः प्र​भो ॥ ४ ॥

उपेक्षमाणेऽपि गुरावनास्थया
शरीरकादौ सुख​मात्मनीश्वरैः ।
नोपेक्षणीयं गुरुदुःखदृश्वभि-
र्दुःखं विनयैरिति शास्त्रनिश्चयः ॥ ५ ॥


1अ. स्मस्सहसा व्यथासहाः । 2अ. जीवानुवेदं ।

3का. निदेश ।