पृष्ठम्:शङ्करविजयः.djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
144
शङ्करविजये

निर्बन्धतो गुरुवरः प्रददावनुज्ञां
दिग्भ्यो भिषग्वर​समानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः
शिष्याः प्रवासकुशला गुरुभक्तिभाजः ॥ १२ ॥

राजेव वारणपतिं गिरिमारुगेह​
पूर्वं रविः पृतनयेब गभस्तिराज्या ।
जेनुं विपक्षमित्र कृष्णमहान्धकारं
तेषु प्रयत्सु मुनिवर्यसमाश्र​येषु ॥ १३ ॥

शीघ्रं पलायत​ तमोऽरिर​तीव भीतो
भानोर्नवेन पृथुरश्मिबलेन नुन्नः ।
कूजन्मधुव्रतकदम्बकमुच्चकाशे
पद्मं रथाङ्गमिथुनं तमियाय भूयः ॥ १४ ॥

स्नात्वा द्विजा नदनदीसरसीषु गत्वा
दत्वार्घ्यमब्जसुहृदे रवये प्रजेपुः ।
दर्भाङ्कुराकलितदोर्युगलास्तदीय​-
बिम्बे निविष्टनयना जितमानसाश्च ॥ १५ ॥

संप्रोषिते रविनृपे तिमिराख्यचोरै-
र्ग्रस्तं बभूव निखिलं भुवनं विशेषैः ।
तस्मिन्नधिष्ठितवति स्वपदं भयेन
मन्ये पलायनपरैरिति वान्तमेतत् ॥ १६ ॥

प्रायो नृपं कविजना भिषजो वदान्यं
वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरे विनिरीक्षणीया
इत्येव चेतसि मनोर​थमाद​धानाः ॥ १७ ॥