पृष्ठम्:शङ्करविजयः.djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
145
दशमस्सर्गः

तुङ्गैश्शृङ्गैरुच्छ्रितं सह्यशैलं
1प्रापन्भ्रान्ता शाङ्करीया विनेयाः ।
यस्मान्नद्यो लब्धजन्मान उच्चै-
र्वारांनाथं यान्ति भर्तारमग्र्य​म् ॥ १८ ॥

2उद्यच्छिरोलम्बिसुदीर्घपुच्छै-
र्गजेन्द्रकुम्भस्थलभेदनोत्कैः ।
प्रसारिताङ्गैर्लघु लङ्घमानै-
र्निषेवितं सिह्म​गणैर्नदद्भिः ॥ १९ ॥

एणैस्सशावैश्वटुलायताक्षैः
किञ्चित्परावृत​मुग्वैस्सुभीतैः ।
समुच्चलद्भिस्स​कृदीक्षमाणै-
र्निषेव्यमाणं मधुराङ्गशोभैः ॥ २० ॥

बृहच्छिलानामुपरि प्रविष्टै-
स्सङ्कोचिताङ्गैर्बहु गर्जयद्भिः ।
व्यात्ताननैर्मूर्छितचञ्चलैणै-
र​ध्यासितं व्याघ्रगणैः क्व​चिच्च ॥ २१ ॥

अनेकपादैर्बहुगण्डवप्रै-
र्गलज्जलैरुन्नतकुम्भकूटैः ।
विलम्बिलाङ्गूलकरश्मिदीप्तैः
निषेव्यमाणं करिभिस्सुरूपैः ॥ २२ ॥

मुनिजनैस्सहसा समुपयिवान्
परिजनस्समवोचत कश्चन ।
गिरिवरेक्षणविस्मितमानसः
शुचिमनाश्शुचिदन्तधरो द्विजः ॥ २३ ॥


1अ. दान्ताः । 2का. उद्यच्छिरोभिः पृथुदीर्घपुच्छैः

Sankara----10