पृष्ठम्:शङ्करविजयः.djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
146
शङ्करविजये

इह वसन्ति नदीतटसंश्रया
मुनिजना ब​हुसिद्धिमभीप्सवः ।
बहुतपश्चरणेषु कृतश्रमाः
विधुतपापचयास्सुकृतादराः ॥ २४ ॥

विद्याधरा बहुसुखेत्र व​ने रमन्ते
विद्याधरीभिरमिताभरणाभिरिद्धाः ।
एला1फलामृदितगन्धिनदीजलस्पृ-
ग्वातेन सेविततरे सुमनोऽभिरामे ॥ २५ ॥

सम्पश्यध्वं पादपा ये गिरिस्थाः
शाखा2भिस्ते संस्पृशन्ति स्वमूलम् ।
पुष्पैर्युक्तास्त3त्फलैस्तत्प्रवालैः
स्थाने तेषां पूर्णता येषु दृष्टा ॥ २६ ॥

निघृष्यमाणा वरदन्तिभिः स्फुटं
मुञ्चन्ति गन्धं बत चन्दनद्रुमाः4
विमुच्यमाना भुजगाङ्गवेष्टनैः।
प्रायेण साम्ना ख​लता न याति ॥ २७ ॥

पश्य नृत्यति कलापिनी ध्रुवं
स्वं कलापमखिलं प्रसार्य सा ।
दिक्प्रसारितजठाकदम्बकं
5नृत्तशम्भुमनुकर्तुमिच्छया ॥ २८ ॥


1अ. फलत्रुटित । 2अ. इस्तैः ।

3अ. सत्फलैस्सत्प्रवालैः । 4अ. द्रवः ।

5अ. नृत्य ।