पृष्ठम्:शङ्करविजयः.djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
147
दशमस्सर्गः

गजानां सत्पोताः कपटनिपुणै1र्बद्ध​विदुरै-
र्निपात्यन्ते वार्यां बहुविध​निनादैरुपहितैः2
महीध्रेऽस्मिन् प्राज्ञैः करिवरघटामन्तरगतां
प्रकुर्वाणैश्शूरै3रहह मनुजाः किञ्च​न विदुः ॥ २९ ॥

गतेषु सर्वेषु 4निपत्य वार्यां
शिंशु करीन्द्राः स्वकरं प्रदाय​ ।
समुद्धरन्तीह महाप्रयासात्
शिशौ तिरश्राम​पि 5हार्दभावः ॥ ३० ॥

अष्टाङ्गयोगसरणिं परिगृह्य केचित्
संयुञ्जते जितसदागतयो महान्तः ।
संलीनदुर्जयहृषीकगणाः स्थिराङ्गाः
कण्डूयितं कृतधिये हरिणास्तदङ्गैः ॥ ३१ ॥

पृथ्वीं जले तदपि तेजसि तच्च वायौ
तं व्याेम्नि ख​ञ्च महति प्रकृतौ तदन्न ।
6संगृह्य विश्वमखिलं परभूयमाप्ता-
स्तिष्ठन्तिं वेदशिरसोऽवगतात्मतत्त्वाः ॥ ३२ ॥

यद्वायुस​ङ्घटितपादपघट्ट​नोत्थ-
वह्निस्तृणेषु पतितः प्रथिमानमेति ।
तद्भीतितो मृगगणः प्लवगाश्च सत्वा
धावन्ति मूढमनसो विदिशो दिशोऽत्र ॥ ३३ ॥

अनारतं क्षोभमवाप्नुवन्तं
पतिं नदीनामचलं प्रकृत्या ।
दृष्ट्वा शरव्याजवशेन शङ्के
हसत्यसौ भूमिधरस्सगर्वः ॥ ३४ ॥


1अ. बन्धुविधुरैः । 2अ. उपचितैः; का. उपहृतैः ।

3अ. क्रूरैः । 4का. निपात्य ।

5अ. हार्दपाशः । 6का. संहृत्य ।

Sankara-10A