पृष्ठम्:शङ्करविजयः.djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
148
शङ्करविजये

दृष्ट्वा समुद्रं हसनं ममापि
सञ्जायते प्राप्तविकारमेनम् ।
फेनयमानं विवशं पतन्त-
मितस्ततो मर्तुमिवालुठन्तम् ॥ ३५ ॥

पुरा सपक्षास्स​कला महीध्रा-
स्तेन स्म बाधन्त उपेत्य सर्वान् ।
चिच्छेद पक्षान्कुलिशेन वज्री
तेनाभवद्गोत्रभिदित्यभिख्या ॥ ३६ ॥

भीतास्तदानीं जलधिं प्रपन्ना
मैनाकमुख्या गिरयो महान्तः ।
ररक्ष तानरैसवच्छरण्य
स्तेन प्रपन्नार्तिहरत्वमस्य ॥ ३७ ॥

प्रयान्त्यपूर्वं परिगृह्य भाण्ड-
मायान्ति तेनैव तथाम्बुराशिम् ।
आश्रित्य 1सर्वेऽपि निजार्थमाप्ता-
स्सांयत्रिकाणां गतिरेष साक्षात् ॥ ३८ ॥

राजेव धर्मी सुसमृद्धिमानसौ
वेलामतिक्रामति नो कदाचन ।
युक्तोऽपि नित्यं ब​हुभिर्जलाशयै-
2र्वृद्ध्या महात्मा विनयाय कल्पते ॥ ३९ ॥

प्रसूय कन्यामिव रत्नजातं
ददास्यसावर्थिवराय हृप्यन् ।
ततोऽस्य रत्नाकरताप्रसिद्धि-
र्महान्परप्रीणनकारको हि ॥ ४० ॥


1अ. वणिजोऽर्थं । 2अ. वृद्ध्यन् ।