पृष्ठम्:शङ्करविजयः.djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
149
दशमस्सर्गः

अथ सुरभिरुपागमत्प्रमोदी
वदति मुनीन्विषयेषु शिष्यविप्रे ।
रविमधुपगणैर्निषेव्यमाणः ।
श्रुतिसुखकोकिलकूजितेन सार्धम् ॥ ४१ ॥

नामतः श्रुतिसुरवापि मञ्जरी
दर्शनीयतमतां गतापि सा ।
शोकदा भवति खल्वशोकजा
देहिनो विरहिणोऽत्र दुस्सहा ॥ ४२ ॥

पुष्पैश्शुभैः किसलयैरवनम्रशाखा
वृक्षा बभूवुरधिकं गिरिकाननस्थाः ।
पद्मानि पद्मनिलयाः परिहाय शीघ्रं
हुंकारिणो मधुकरास्तरुषण्डमीयुः ॥ ४३ ॥

मन्दं ववौ गिरिसरित्सलिलावगाही
वायुः प्रसूनरजसोपहितस्समन्तात् ।
चित्तं बभूव सहसा कलुषं जनानां
मूर्छामवाप जनता विरहाग्नितप्ता ॥ ४४ ॥

आस्वादयन्मधुरचक्षुपुटेन मन्दं
पुंस्कोकिलो रसकषायितकण्ठनालः ।
मृद्वीं रसालकालकां मदनास्त्रभूता-
मुद्दीपयन् कुसुमकार्मुकमुञ्चुकूज ॥ ४५ ॥

परागाः प्रासूनः पवनब​लनुन्नस्सुरम​यो
गलन्तस्संव्यापन् गिरिवनभुवश्छादितलताः ।
सृजन्तश्शान्तानामपि च विकृतिं मानसगतां
1सुदूरं गच्छन्ती पथिकजनता द्रष्टुमनलम् ॥ ४६ ॥


1अ. सुदुरात् ।