पृष्ठम्:शङ्करविजयः.djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
151
दशमस्सर्गः

कश्चिद्ब​बन्ध सुमनोरचितावतंसं
पत्न्यास्समें शिरसि नेत्रजलैस्सपत्न्याः ।
उच्चैः प्रसूनमिति सा ह्यवहत्ततोऽन्या
सावाचिनोष्ट कुसुमं पुलकाञ्चिताङ्गी ॥ ५३ ॥

मृद्वींवदां मृदुपदां स्तबकस्तनाढ्यां
पत्रेक्षणां किसलयाधरशोभमानाम् ।
शाखाभुजामपचिचाय वधस्सुरूपां
पुष्पन्धयेन र​सिकां तनुदीर्घयष्टिम् ॥ ५४ ॥

काचिल्ल​तागृहगता लतिकासमाङ्गी
स्वन्तर्दधे निजसखीभ्य उदारचेष्टा ।
एनां निजाः प्रकुशला मृगयान्बभूवुः
सख्यो न वीक्षितुमलं जहसे तयोंच्चैः ॥ ५५ ॥

अन्या तरोः कोटरगा निलिल्ये
विहाय तस्मिस्तमसाऽऽवृते सा ।
तस्माद्विनिर्गन्तुमपारयन्ती
चुक्रोश दीनोद्धरतेति सख्यः ॥ ५६ ॥

कश्चित्परीहासपरोऽप्यधत्त
चक्षुर्द्वयं दोर्युगलेन पत्न्याः ।
पृष्ठे समागम्य वदेति चोक्ता
प्रोचे सुख​स्पर्शवशेन नाम ॥ ५७ ॥

उच्चस्थितां कुसुमितामवनम्य दत्तां
शाखां लुलाव कुसुमं दधती घवेन ।
अन्या चुकोप रमणाय च तत्सपत्नी
1मात्सर्यमङ्कुरितमाशु ततस्ससाद ॥ ५८ ॥


1का. माकलितमाशु ।