पृष्ठम्:शङ्करविजयः.djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
152
शङ्करविजये

पुष्पं लुनन्त्याः परिमुक्तमन्य
स्सुकेशपाशं प्रसवैर्ब​बन्ध ।
तदीक्षमाणा कुपिता सपत्नी
तत्याज पुष्पं त्वरितं जगाम ॥ ५९ ॥

पुष्पावचायात्परिपेशलानि
स्वभावरक्ताान कराम्बुजानि ।
विशेषरक्तानि बभूवुरासं
प्रायःशरीरं मृदु पुष्पतोऽपि ॥ ६० ॥

नदीषु गङ्गां नगरीषु काञ्चीं
देवेषु शम्भुं ललनासु गौरीम् ।
ग्रहेषु सूर्यं करणेषु चक्षुः
काले वसन्तं जगुरुत्तमं नः ॥ ६१ ॥

शुचिः स्वयं शोकनिदानभूमि-
रन्तर्बहिस्सञ्जनयन् प्रदाहम् ।
तपस्विनामुग्रतपोऽनुकूलं
शुक्रेण साकं शुचिराजगाम ॥ ६२ ॥

कर्माणि जन्मान्तरसञ्चितानि
यथा परीपाकमवाप्नुवन्ति ।
भवान्तरे तद्व​दिहाेदितानि
फलानि सस्यानि च पाकमीयुः ॥ ६३ ॥

स्वरांशुस्तीव्रात्मा क्षितिगतरसं वस्तुनिचयं
करैर्निष्पीड्यायं हरति शुचिगो दुस्सहतनुः ।
प्रजानां दुष्टात्मा क्षितिपतिरसावर्थनिचयं
यथाऽऽकृष्यादत्ते करकपटताे लोभवशगः ॥ ६४ ॥