पृष्ठम्:शङ्करविजयः.djvu/१८

पुटमेतत् सुपुष्टितम्

इत्थं स शङ्करगुरुः कृतकृत्यभावात्
भावान्प्रकाश्य​ निगमान्तगिरां निगूढान् ।

काञ्च्यां विमुच्य वपुरादृतमिच्छयैव
स्वस्यैव धाम्नि परमे स्वत एव लिल्ये ॥

गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा।
व्यावृण्वन् भुवनान्तरं परिहरंस्तापं स​मोहज्वरम् ।

यश्शाखी द्विजसंस्तुत: फलति तत्स्वाद्यं रसाख्यं फलं
तस्मै शङ्कर​पादपाय महते तन्मस्त्रिसन्ध्यं नमः ॥

पीठे तिष्ठति कामकोटिबिरुदे यः शारदाख्ये मठे
देहीवादिमशङ्करार्य​नियमव्रातो व्र​तिष्ठोऽधुना ।

नेपालादिनृपालमौलिविधृतश्रीशासनो नः शिवं
देयादेष जगद्गुरुस्स विपुलानन्दाकृतिश्शङ्करः" ॥