अन्यान्यसेचनवशान्नयनान्तरस्थं
नीलाञ्जनं विलयमाप 1च तत्क्षणेन ।
आरुण्यमाप नयनं पुनरेव तासां
वक्त्रं रुचिं 2न विजहौ पुनरुक्तशोभम् ॥ ८३ ॥
अपनिनीषुरयं वनितागणो
वनविहारपरिश्रममुल्बणम् ।
जलमगाहत तद्वसनाभू-
द्द्विगुणितं श्रमदं वत सुभ्रुवाम् ॥ ८४ ॥
उत्तेरुरुत्तमगुणास्सलिलाशयार्ता
आर्द्राम्बरस्फुटनिबद्धतनूलताकाः ।
उत्थाय सूक्ष्मवसनं वसते स्म कौश्यं:
वस्त्राण्यनेनिजुरशोषि च ताभिरद्धा ॥ ८५ ॥
तत्स्थाङ्गरागनिवहैस्सुरभीकृताम्भः
स्पृष्ट्वा ववौ वनमहीरुहमातरिश्वा ।
तेन श्रमो निववृते ववृधे च कामः
पातुं मधुं सममियेष वधूगणः स्वैः ॥ ८६ ॥
युवतयो युवभिस्सममाश्रयन्
मृदुलकुट्टिमसौवमनुत्तमम् ।
मणिमयं मणिसाधितवर्त्मना
कुचभरावनता 3कृशमध्यमाः ॥ ८७ ॥
सुरभिपुष्पसुवासितकुट्टिमे
क्रमत एव गतास्समुपाविशन् ।
प्रियतमैः पपुरासवमादृता-
श्चषकरत्नवितीर्णममूस्सुखम् ॥ ८८ ॥
1अ. ततः क्षणेन । 2अ. नहि जहौ ।
3अ. नमिता ।