पृष्ठम्:शङ्करविजयः.djvu/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
157
दशमस्सर्गः

उभयमेतदपि स्फुटमीक्षितं
मधु वधूवनञ्च सुगन्धिमत् ।
मधुगतः किमयं मुख​ ईक्ष्यते
मुखगतो मधुनीति विशेमहे ॥ ८९ ॥

मधु पिबन् दयितो न तथा पुरा
प्रियतमामुखगेन यथामुना ।
सुखमवाप तथा प्रियवल्लभा
प्रियतमार्पितसीधुरमोदते ॥ ९० ॥

प्रियतमार्पितमासवमेकका
विषममंस्त वधूर्यदयं ददौ ।
प्रियतमा प्रतिपक्षजनाय तत्
कठिनमासु मनो दिमृदुस्तनुः ॥ ९१ ॥

चषकरत्ननिविष्टमुखं स्वकं
समभिवीक्ष्य ननन्दुरतीव ताः ।
प्रियतमाभिजयाय मनो दधु-
र्विजयदं वपुरेव हि केवलम् ॥ ९२ ॥

मधुमुखेन मधुर्विकृतिं शनै-
र्जनयति स्म वधूषु सभर्तृषु ।
जहसुरुल्लसितानि हि कारणं
निजगदे 1बहुधाप्यनुतापदम् ॥ ९३ ॥

श्ल​थमभूद्व​दनं स्खलिता गति-
श्शिशुवचाेऽनुचकार वचः स्फुटम् ।
प्रवसनाय मनोऽधित सा त्र​पा
भवति या समलङ्करण स्त्रियः ॥ ९४ ॥


1का. पुनरप्यनु ।