पृष्ठम्:शङ्करविजयः.djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
160
शङ्करविजये

बामोरु पश्य मृदुशीतक​रः कराग्रैः
आशङ्गनाद​नुकुचान्स्पृशति क्रमेण ।
सच्छृङ्गचूचुकयुतांस्तरुकञ्चुकाड्यान्
मत्तो युवेव चपलस्सक​लङ्क इन्दुः ॥ १०७ ॥

क्षीराम्बुधिं प्रभवमस्य वदन्ति सन्तो
यत्रोदपादि सक​लं बहुमानवस्तु ।
श्रीकौस्तुभः सुरतरुर्ध​वलो गजेन्द्रः
श्रीमत्सुधा भगवती कमला हरिश्रित् ॥ १०८ ॥

एते पुरा निगदितास्सहजा मृगाक्षि
चन्द्रस्य चन्दनरसादपि शीतलस्य​ ।
क्षीराम्बुधिर्जननभूः किरणस्सुधाम्ना
मूर्तिस्तथापि मलिना विधिरप्र​कम्प्यः ॥ १०९ ॥

वंशद्वयं सुतनु संप्रथितं पृथिव्यां
तत्रोदपादि चरमः खलु चन्द्रमस्तः ।
यत्राेदपद्यत नृपाः प्रथितानुभावाः
श्रीकार्तवीर्यभरतप्रमुखा महान्तः ॥ ११० ॥

पुष्णाति तीक्ष्णकिरणात्तरसा निदाघे
सर्वौषधीरनुप​तः किरणैस्सुधाभिः ।
रात्रौ दिवातनदिवाकरतप्तजन्तू-
नाप्याययन्नवति सुभ्रु मुधांशुरेषः ॥ १११ ॥

रात्रौ वराङ्गि युवभिर्घटने वधूनां
पुष्पायुधस्य शिशिरांशुरमात्य एषः ।
घस्ने मधुर्गदितकार्यविधावमात्यौ
द्वावित्थमस्य गदितौ परमौ सहायौ ॥ ११२ ॥