बाले किमेव मनुषे किमु कार्यमस्ति
गन्तव्यमद्य1 भवनं किमु वेत्सि भद्रे ।
जानाति हार्दमपि सन्तनुते त्वदीशो
जानासि तद्धृदयमालि विकत्थनं मा ॥ ११९ ॥
ज्ञानेन वा कृतमनेन न जानता वा
तद्यातु 2नेर्ष्यमुपरीश्वरि पश्य वृत्तम् ।
सूक्ष्मापराधपरिहारविधिस्त्वशक्यः
केनापि तेन सुखमास्व पतिं जुषस्व ॥ १२० ॥
सत्यं वदामि सुभगे सकलाधिपत्यं
त्वय्यर्पयिष्यति यदुक्तमदो विधाता ।
त्वय्येव तस्य हृदयं न हि वेत्ति बाले
तत्त्वेन हार्दमपरत्र तु गौणमस्य ॥ १२१ ॥
वक्ष्यामि गोप्यमपरं तव सुभ्रु भर्ता
जायां करिष्यति युवा कमनीयरूपाम् ।
कार्यं न चातिमथनं क्वचिदप्यकाले
जानासि मूढहृदये पतिता 3पयोधौ ॥ १२२ ॥
यद्युक्तमद्य न करिष्यति मूढभावा-
त्तन्मन्दिरं सुतनु नास्ति वदामि सत्यम् ।
गच्छामि गेहमभिवाञ्छसि चेत्प्रयाहि
नो चेन्मदुक्तमखिलं स्मरसि त्वमेव ॥ १२३ ॥
1अ. आर्य । 2का. नेक्ष्य ।
3का. पदब्धौ ।