पृष्ठम्:शङ्करविजयः.djvu/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
169
एकादशस्सर्गः

हंसद्विजा लघुमदा शरदोपहूता
आजग्मुरुद्ध​तविलोकनवाञ्छयेव ।
श्रीमानसात्सकलकालसमृद्धिभाज-
स्संधूयमानसित​पत्रपुटास्सुशीलाः ॥ २४ ॥

दिङ्मण्डली नगकुचा सरसीरुहाक्षी
वप्राधरा द्युवसना सिततारद​न्ता ।
प्रोत्तुङ्गशाखिक​रपाण्डरहारयष्टि-
स्संराजते बहुगुणा शरदा विभक्ता ॥ २५ ॥

कादम्बिनीयवनिकामपसारयन्ती
नानापदार्थनिकरं रविचन्द्रमोभ्याम् ।
आभासयत् गृहगता गृहिणीव तत्स्थं
नानापदार्थनिकरं करदीपिकाभ्याम् ॥ २६ ॥

अम्भांसि कुम्भजननो मुनिरात्मपादै
स्संशोधयन्नुदयते स्म महानुभावः ।
स्रोतस्विनीषु पुलिनानि महान्ति हातुं
प्रक्रान्तवन्ति शनकैरुदकोज्झितानि ॥ २७ ॥

अम्भोधिनीरनगरेषु निचिक्षिषुः स्वं
पोतेषु भाण्डमपर​त्र च दुर्लभं यत् ।
संयात्रिका बहुधना धनवृद्धिकामा
यैराप्यते शतगुणं ध​नमक्षयञ्चेत् ॥ २८ ॥

उच्छ्रायिकूलतरवः पवनेने नुन्ना
पोता ययुर्निहितभाण्डचयास्समुद्रे ।
द्वीपान्तरं प्रति विचक्षणरक्षितव्याः
केचित्समाययुरमी परिपूरितार्थाः ॥ २९ ॥