पृष्ठम्:शङ्करविजयः.djvu/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
174
शङ्करविजये

भूमीरनूपनिलया उदयुञ्जतादौ
क्रष्टुं कृषीवलजनास्सहसा सहासाः ।
पान्थाः प्रमन्दहसितास्सहसा बभूवु-
र्वातेन चापि सहसऽभिगतेन विद्धाः ॥ ५४ ॥

शोकास्पदं स​कमलं कमलं व्यनाङ्क्षीत्
हेमन्तकालख​लसङ्गतिदूषितं तत् ।
शोच्यास्तदा सरसिजैर्बिरहात्सरस्यो
जाताः परं कुलवधूरिव निस्तनूजा ॥ ५५ ॥

मध्येऽपि वासरपतिर्दिवसस्य तीक्ष्णाे
मन्दो बभूव शिशिराग्बुकणाभिवर्षी ।
शीतोऽप्यशीतवपुरुष्णमनुप्णमास्त​
किं नाम कर्तुमनलं बत​ काल एषः ॥ ५६ ॥

नखंपचाेत्तुङ्गपयोधराळ्यढ्य​-
प्रियोपगूढास्सहसा युवानः ।
ताम्बूलवल्लीदलपूगवण्ड-
कर्पूरसंपूरितवक्त्रपद्माः ॥ ५७ ॥

सुदुस्सहं 1शीतमनन्यभार्यं
2सेविरे सेवितकाेष्ण​भक्ताः ।
निदानवद्वैद्यवरोपादष्ट-
योगेन रुग्णा इव रोगमुग्रम ॥ ५८ ॥

निवातगेहं सुदृढोरुभित्ति
3बद्धादरं कोष्णनिषेव्यमाणम् ।
सरल्ल​कं तल्पमनल्पशीतलं
संसेव्यमानश्शिथिलीचकार ॥ ५९ ॥


1अ. अनन्यहार्यं । 2अ. प्रसेहिरे ।

3अ. बद्धाररं ।