पृष्ठम्:शङ्करविजयः.djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
175
एकदशस्स​र्गः

निःस्वस्सुजीर्णवसनस्सदनेऽ1म्बुजीर्णे
शतोत्तरेऽग्निरहिते गतनिद्र आस्त ।
काष्ठोज्झिते दलितजीर्णकवाटचेले
सङ्कोचयन् करपदानि विसास्यंश्च ॥ ६० ॥

आनम्रपक्वफलपुञ्जककृष्णवल्ल्य-
श्शीताद्भियेव ललनावदचेतयन्त्यः ।
आमूलमाग्रपरिरम्भणलब्धसौख्या-
स्सेवन्त औषरवनेषु तरूनुपघ्नान् ॥ ६१ ॥

आलिङ्गिताः कृष्णलताभिरुच्छ्रिता
गुञ्जा नताभिर्बहुभारसंश्रयाः ।
शिरोभिरीड्यां जननीं वसुन्धरां
नूनं प्रणन्तुं विनमन्ति शाखिनः ॥ ६२ ॥

भानुदिवा कठिनकोष्ठभवः कृशानु-
स्सन्ध्याद्व​ये तुहिनरोगनिपीडितस्य ।
जानुद्व​यं निशि मुखेन निचुम्ब्यमानं
भैषज्यमुक्तमति2 दुर्विधपूरुषस्य ॥ ६३ ॥

शेतेऽसकृत्तुहिनपीडित उत्थितश्च
वैश्वानरं निशि विकीर्य निषेवमाणः ।
रात्रेः कियत्वमिति पृच्छति दुर्विधेयं
शेते विषण्णवदनो गतनिद्र एव ॥ ६४ ॥

हेमन्तपीडितमुदीक्ष्य जनं समन्ता-
दभ्यागतश्शिशिरकाल उपात्तदेहः ।
3धर्मावसान उपरोधकपूर्वभाग-
स्सर्वो निपीडितनिपीडनकाम एव ॥ ६५ ॥


1अ. सुजीर्णे । 2अ. दुःखित ।

3अ. शर्मावसान ।

Sankara--14