पृष्ठम्:शङ्करविजयः.djvu/२०४

पुटमेतत् सुपुष्टितम्
180
शङ्करविजये

नदनदीगिरिदेशविलंघना-
त्समभवद्भवतां पथिजः श्रमः ।
दिनकरस्य करै1रपि तापदैः
परहिताभिरतस्य न दुःख​धीः ॥ ९० ॥

इति निशम्य वचो मुनिनोदितं
निजगदे गदहारिजनैस्ततः ।
भवदनु2ग्रहणात्कुशलं च नो
गृहकलत्रसुतादिषु सन्ततम् ॥ ९१ ॥

कुशलमेव समस्ति न सङ्कटं
न हि रवौ तिमिरं लभते स्थितिम् ।
अगमदध्वजभूरिपरिश्रम-
स्तव मुखाब्जविलोकनताऽधुना ॥ ९२ ॥

यदिह नः करणीयमुदीर्यतां
वितनुमो मुनिवर्य यथाबलम् ।
उपगुदं भिषजः परिबाधते
गद उदेत्य​ तनुं तनुमध्यगः ॥ ९३ ॥

यदिदमस्य विधेयमिदं ध्रुवं
गदत रोगतमस्तिमिरारयः ।
चिरमुपेक्षितवानहमेतकं
दुरितजोऽयमिति प्रतिभाति मे ॥ ९४ ॥

तदपि शिष्यगणैर्नि3र​हिंस्यहं
प्रहित​वान्भवदानयनाय तान् ।
निगदिते मुनिनेति भिषग्वरा
विद​घिरे बहुधा गदसत्क्रियाः ॥ ९५ ॥


1अ. अति । 2अ. स्मरणात् ।

3का. निरबन्ध्य​हं ।