पृष्ठम्:शङ्करविजयः.djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
181
एकादशस्सर्गः

न च शशाम गदो बहुतापदो
विमनसः पठवो भिषजोऽभवन् ।
जनपदानतिलङ्घ्य समागता
वयमितो न कृतं हितमस्य हा ॥ ९६ ॥

न दहनं विरहय्य मुने गदं
शमयितुं प्रभवन्ति भिष1ग्जनाः ।
अनुचिता यतिनां दहनक्रिये-
2त्यपथभीति मनो वदितुं च नः ॥ ९७ ॥

अठत गेहमगात्समयो बहु-
र्गदहृतां भवतामितरं युषाम् ।
दिनचयं गणयन्पथिलोचनः
प्रियजनो निवसेद्विरहातुरः ॥ ९८ ॥

नरपतिर्भवतां शरणं ध्रुवं
स च विदेशगमं श्रुतवान्यदि ।
रुषितवान् न च वो वितरेन्नृपो
भणितजीवितमक्षतशासनः ॥ ९९ ॥

तुरगवन्नृपतिश्चलमानसो
भिषजमन्यमसौ विदधीत वा ।
नरपतेर्हृदयाम्बुजतोषणं
न सुकरं सुधियापि 3निशेशवत् ॥ १०० ॥

जनपदो विरलो गदहारकै-
र्ब​हुलरुग्णजनः प्रकृतेरतः ।
मुगयते भवतो भवतां गृहे
4गदिजनस्सहितुं गदमक्षमः ॥ १०१ ॥


1का. भिषग्वराः। 2का. अपि सभीति ।

3अ. विशेषवत् । 4अ. गृहिजनः ।