पृष्ठम्:शङ्करविजयः.djvu/२०७

पुटमेतत् सुपुष्टितम्
183
एकादशस्सर्गः

जिगदिषू इव वामुपलक्षये
गदतमस्ति यदीप्सितमश्विनौ ।
असमये सदनात्समितिं गतौ
तदिह कारणमस्ति न संशयः ॥ १०८ ॥

हरिहयाह्वयति स्म चिकित्सितुं
यतिवरः क्षितिलोकगतोऽपि नौ ।
इति निवेदयितुं कृत आगमो
यदिह कार्यमुदाहरतां भवान् ॥ १०९ ॥

इदमपूर्वमुपस्थितमद्य नौ
सुरगणेषु चिकित्सितमावयोः ।
प्रथितमेव हरे भुवनत्रये
तदपि हूतिरियं मनुजेन नौ ॥ ११० ॥

हरिहयेङ्गितविद्गुरुरुत्तरं
प्रतिजगाद​ पटुर्भिषजौ हसन् ।
न मनुजश्शिव एव समाह्वयत्
गद1नुदौ गदितः क्षितिगो युवाम् ॥ १११ ॥

द्विजवरस्सहितो निजभार्यया
शिवमतूतुषदुग्रतपश्चरन् ।
सुतमभीप्सुरनल्पगुणोदयं
शिवसमं शिव एव सुतोऽजनि ॥ ११२ ॥

स ववृधे मनुजत्वमुपागतो
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एवं समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥ ११३ ॥


'अ. हृतौ ।