पृष्ठम्:शङ्करविजयः.djvu/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
184
शङ्करविजये

द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवोत्किमपि श्रवणं विना ॥ ११४ ॥

अजनि दुःख​करो न गुरोरसौ
श्रवणतस्सकृदेव समग्रहीत् ।
सहनिपाठिजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥ ११५ ॥

त्रिसम एव शिशोर्जनको जर-
न्नमृत कर्मवशस्सुतमोदितः ।
उपनिनीषत सूनुमपि स्वयं
न हि यमोऽत्र कृताकृतमीक्षते ॥ ११६ ॥

इह भवेत्सुलभं सुसुतेक्षणं
न सुलभं सुतरां विभवेक्षणम् ।
सुतमवाप कथाञ्चिदयं द्विजो
न ख​लु वीक्षितुमैष्ट सुतोदयम् ॥ ११७ ॥

मृतमदीदह​दात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती 1युवतीडितां
स्वजनतामृतिशोकहरैः पदैः ॥ ११८ ॥

कृतवती 2मृतिचोदितमक्षमा
निजजनैरविकारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः
पारिसमाप्य च वत्सरदीक्षणम् ॥ ११९ ॥


1अ. धद​खण्डितां । 2अ. मृत ।