पृष्ठम्:शङ्करविजयः.djvu/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
185
एकादशस्सर्गः

उपनयं किल पञ्चमवत्सरे
प्रचुरयोगयुते सुमुहूर्तके ।
द्विजवधू1र्नियता जननी शिशो-
र्व्यधित तुष्टमनास्सह बन्धुभिः ॥ १२० ॥

अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोस्स षडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनताहृदि ॥ १२१ ॥

सहनिपाठयुता वटवस्समं
पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्
क इव पाठयितुं सहसा क्षमः ॥ १२२ ॥

मृदुवचश्च​रितं कुशला मति-
र्वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा
सुखमवाप निरर्गलमम्बिका ॥ १२३ ॥

परिचरञ्जननी निगमं पठन्
अपि हुताशरवी सवनद्व​यम् ।
मनुवरैर्नियतं परिपूजयन्
शिशुरवर्तत संस्तरणो यथा ॥ १२४ ॥

शिशुमुदीक्ष्य युवापि 2विमन्युमान्
दिशति वृद्ध​तमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं
चशगतो विहिताञ्जलि तत्क्षणात् ॥ १२५ ॥


1अ. व​धूनिय​ता । 2अ.न; का. नमत्यमुं ।