पृष्ठम्:शङ्करविजयः.djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
187
एकादशस्सर्गः

त्यजति नूनमसौ चरणं चलो
जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिं परिकल्पये ॥ १३२ ॥

इति शिशौ 1चकिते वदति स्फुटं
व्यधित सानुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयात् ॥ १३३ ॥

तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं 2खलनक्रकः ।
उपययौ स नदीतटमत्रसन्
प्रणतवान्प्रहसन् जननीमपि ॥ १३४ ॥

तदनुशासनवान् प्रययौ गृहं
न्याधित संन्यसनं मुदितश्शिशुः ।
विदितशास्त्रम3वाप्य दयाम्बुधिं
गुरुमनुत्तममुत्तमसेवितम् ॥ १३५ ॥

प्रभुरपि स्वशरीरगमर्दितुं
गदमयं प्रथयन्नरधर्मताम् ।
यतितनुश्शिव आह्वयते स वां
गदहृतावयतं गतसंशयौ ॥ १३६ ॥

अटिदिषू क्षितलाेकमितो युवां
द्विजवरौ भवतं भिषजौ नरौ ।
बलिविधिर्मजनीयसुरानुगो
भवति हीति वदन्ति जना अपि ॥ १३७ ॥


1अ. चकिता । 2अ. जल ।

3अ. अवाप ।