पुटमेतत् सुपुष्टितम्
188
शङ्करविजये
इति निगद्य वचस्सुरदेशिके
स्थितवति प्रथितौजसि चाश्विनौ ।
गृहमुपेत्य यथोदितभेषजं
जगृहतुर्दधतुर्गतये मनः ॥ १३८ ॥
द्विजतनुं प्रविधाय भिषग्वरौ
मनुजलोकमुपेयतुरश्विनौ ।
धवलसूत्रधरौ विमलाम्बरौ
करसरोरुहमूलकपुस्तकौ ॥ १३९ ॥
मलयजेन कृतायतपुण्ड्रकौ
स्मितविकासिमुखेन्दुविराजितौ ।
चटुलसाञ्ज २ नपङ्कजलोचनौ
मृदुसुदीर्घकराम्बुजश्नौ ॥ १४० ॥
उपगतौ भिषजौ द्युसदां पतिं
यतिमलोकयतां गदपीडितम् ।
मुनिवरोऽप्यवलोक्य तुतोष तौ
नयनमानसहारिवपुर्धरौ ॥ १४१ ॥
द्विजवरौ किमिदं भुजमूलके
कुत उपागमनं सुमुखौ युवाम् ।
किमिह कृत्यमितः क गमिष्यथो
निवसनं क्षणमत्र सुखाय मे ॥ १४२ ॥
लिखितमेतदनल्पचिकित्सितं
यतिवरेह सुखाय विदूरगौ ।
जिगमिषु स्वयमेव पदं शनै-
र्यदि सुखं वसनेन वसाव ते ॥ १४३ ॥