पृष्ठम्:शङ्करविजयः.djvu/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
190
शङ्करविजये

सुख​मताडयतां गदमस्तके
द्विजवरौ भिषजौ द्युसदामथ ।
समुदमीलयदक्षियुगं मुनि-
र्न च पुरो ददृशे द्विजयोर्युगम् ॥ १५० ॥

समभ​वन्मुनिरेव निरामय-
स्स्वभवनं ययतुस्सुखमश्विनौ ।
द्विजवरौ बुबुधे मुनिरश्विनौ
1अचकथन्निजशिष्यगणाय तत् ॥ १५१ ॥

मुमुदिरे यतयाे गुरुमात्मनो
गतगदं परिदृश्य सुखेषितम् ।
स्वगुरुणा सुखदुःखसमो जनो
भवति निर्वृतये हि निरीतये ॥ १५२ ॥

प्रावृड​ यत्र समं शरद्वनितया पूश्शारदी वर्णिता
हेमन्तश्शिशिरण देशिकवरप्राप्तिर्महीवर्तिनाम् ।
नानाव्याधिहृतां निवृत्तिरमुना हूतिश्च नासत्ययो-
र्यातश्शङ्करदेशिकेन्द्रविजये सर्गोऽयमेकादशः ॥ १५३ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये एकादशस्सर्गः ॥


1का. अकथयन् ।