पृष्ठम्:शङ्करविजयः.djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
195
द्वादशस्सर्गः

प्रकाशयन्ते 1परमात्मतत्वं
करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्ताम​लकाः प्रसिद्धा-
स्तत्कर्तुराख्यापि तथैव वृत्ता ॥ २४ ॥

विनोपदेशं स्वत एव जातं
परात्मबोधं द्विजवर्यसूनो ।
व्यस्मेष्ट संप्रेक्ष्य स देशिकेन्द्रो
न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥ २५ ॥

पुराभवाभ्यासवशेन सर्वं
स वेत्ति सम्यङ् न च वक्ति किञ्चित् ।
नो चेत्कथं स्वानुभवैकगमे-
पद्यानि भाषेत निरक्षरास्यः ॥ २६ ॥

सुते निवृत्ते वचनं बभाषे
स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं
न तेऽमुनार्थो जडिमास्पदेन ॥ २७ ॥

न सक्तिरस्यास्ति गृहदिगोचरा
नात्मीयदेहे ममतास्य विद्यते ।
2तदार्थ्य​तेऽन्यत्र ममत्ववेदनं
यदा न सा स्वे किमु बाह्यवस्तुषु ॥ २८ ॥

इतीरयित्वा भगवान्द्विजात्मजं3
ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं
कियत्प्रदेशं स्थिरधीर्बहुश्रुतः ॥ २९ ॥


1अ. परमार्थ । 2अ. तादात्म्यतोऽन्यत्र (?) ।

3अ. द्विजन्मजं ।