पृष्ठम्:शङ्करविजयः.djvu/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
198
शङ्करविजये

1तत्रास नैयायिक आत्तगर्वः
कणादपक्षाञ्च​रणाक्षपक्षे ।
मुक्तेर्विशेषं वद सर्वविच्चेत्
नो चेत्प्रतिज्ञां त्यज सर्ववित्वे ॥ ४२ ॥

2आद्यन्तनाशे गुणसंहतर्या
स्थितिर्न​भोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणा...क्षे
सानन्दसंवित्साहि ... विमुक्तिः ॥ ४३ ॥

पदार्थभेदः स्फुट एव सिद्ध
स्तथेश्वरस्सर्वजगद्विधाता ।
स ईशवादीत्युदितेऽभिनन्द्य
नैयायिकोऽपि न्यवृतद्विरोधात् ॥ ४४ ॥

तं कापिलः स्माह च मूलयोनिः
किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्ववित्त्वा-
न्नो चेद्विशेषस्तव दुर्लभः स्यात् ॥ ४५ ॥

सा विश्वयोनिर्बहुरूपभागिनी
स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली
वेदान्तपक्षे परतन्त्रता मता ॥ ४६ ॥

3ततो भदन्तो न्यरुणत्स...र्वो
दत्वा परीक्षां व्रज धाम देव्याः ।
बौद्धास्तथा संप्रथिताः पृथिव्यां
बाह्यार्थविज्ञानकशून्यवादैः ॥ ४७ ॥


1अ. तटापि । 2अ. अत्यन्त ।

3अ. तथागतोऽथ ।