पृष्ठम्:शङ्करविजयः.djvu/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
199
द्वादशस्सर्गः

बाह्यार्थवादो द्विविधस्तदन्तरं
वाच्यं विवक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च किं विभेदकं
भवन्मतं ब्रूहि ततः परं व्रज​ ॥ ४८ ॥

सौन्त्रान्तिको वक्ति हि वेद्यजातं
लिङ्गाधिगम्यं त्वितरोऽक्षगम्य​म् ।
तयोस्तयोर्भङ्गुरता विशिष्टा
भेदः किया.. वेदनिवेद्यभागी ॥ ४९ ॥

विज्ञानवादी क्षणिकत्वमेषा-
मङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेके-
त्यङ्गीचकारेति महान्विशेषः ॥ ५० ॥

अथाब्रवीद्दिग्वसनानुसारी
रहस्यमेकं वद सर्वविच्चेत् ।
यदस्तिकायोत्तरशब्दवाच्यं
तत्किं भतेऽस्मिन्वद देशिकाशु ॥ ५१ ॥

तत्राह देशिकवरः शृणु रोचते चेत्
जीवादिपञ्चकमभीष्टमुदाहरन्ति ।
तच्छब्दवाच्यमिति जैनमते प्रशस्ते
यद्यस्ति 1वोढुमपरं कथयाशु तन्मे ॥ ५२ ॥

दत्तोत्तरे वादिगणे तु बाह्मे
बभाण कश्चित्किल जमिनीयः ।
शब्दः किमात्मा वद जैमिनीये
द्रव्यं गुणो वेति ततो व्रज त्वम् ॥ ५३ ॥


1अ. बोद्धुं ।