पृष्ठम्:शङ्करविजयः.djvu/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
201
द्वादशस्सर्गः

आभाषते यव​निकां 1दृढमाबबन्धु-
र्मध्ये तयोर्भगवती मुनिदेशिकेशम् ।
पप्रच्छ तं भगवती निखिलाश्च विद्याः
तस्योत्तरं क्रमत आह मुनीन्द्रवर्यः ॥ ६० ॥

विद्याश्चतुष्षष्टिरिति प्रकाशाः
परीक्ष्यमाणासु च तासु तत्क्रमात् ।
वात्स्यायनप्रोक्तमसौ न वेत्ती-
त्यालोच्य तत्प्रश्नमथाकरोत्सा ॥ ६१ ॥

कलाः कियत्यो वद पुष्पधन्वनः
किमासिका किञ्च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः
कथं युवत्यां कथमेव पूरुषे ॥ ६२ ॥

नेतीरितः किञ्चिदुवाच शङ्करः
विचिन्तयन्नास्त चिरं विचक्षणः ।
तासामनुक्तौ भविताल्पवेदिता
भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ६३ ॥

आलोच्य किञ्चिन्मनसा निदध्यौ
मृतं युवानं निकटे महीपम् ।
देवीं ययाचे स दिनानि सप्त
देह्यम्ब पश्चाद्व​दितास्मि सर्वम् ॥ ६४ ॥

कृत्वा समाधिं तरुकोटरे स्वां
तनुं न्यधात्कञ्चन रक्षणाय ।
त्यक्त्वा तदा योगबलेन जीवं
लात्वा महीपस्य विवेश देहम् ॥ ६५ ॥


1अ. निबिडां वबन्धुः ।