सङ्काेचयन्वादिमुखाम्बुजानि
विकासयन्केवलमात्मपक्षम् ।
आनन्दयन् संसृतिमार्गतान्तान्
श्रीशङ्करेन्दुर्जयनति प्रकामम् ॥ ८४ ॥
शुक्ले च कृष्णे च समानतेजाः
पक्षे वहिश्चान्तरमन्धकारम् ।
अपानुदन् शङ्करदेशिकेन्द्रो
जयत्यपूर्वं क्षितिमार्गचारी ॥ ८५ ॥
गोबृन्दैरभिभासयन्नभिमतानर्थान्विाशष्टार्थदान्
व्याेमव्यापिपदे स्थितो निरवधावुत्थाय गोत्रोत्तमान् ।
सङ्गृह्णन्वसुधातले विपुलभास्सारं सुसंपूजितः
श्रीमच्छङ्करभास्करो विजयते मुष्णन् जनानां तमः ॥ ८६ ॥
श्रीमच्छङ्करदेशिकेन्द्रचरणद्वन्द्वाम्बुजन्मान्वयि-
श्रद्धाभक्तिवशेन केवलमियं तद्गोचरा सत्कथा ।
न ख्यात्यै न च पूजनाय कथिता नो भूमिवित्ताप्तये
वाचं मे पवितुं तदीयचरिताम्भोभिस्सदा तद्वदाम् ॥ ८७ ॥
यत्रोच्यते वादिगुणानुयोग-
व्याजेन सिद्धान्तरहस्यमद्धा ।
स द्वादशोऽगाद्विजयेऽत्र सर्गः
श्रीशाङ्करे व्यासगिरिप्रणीते ॥ ८८ ॥
॥ इति श्रीशङ्करविजये व्यासाचलीये द्वादशस्सर्गः ॥
समाप्तोऽयं ग्रन्थः ।