पुटमेतत् सुपुष्टितम्


श्रीमच्छङ्करविजयः

श्रीव्यासगिरिप्रणीतः

प्रथमस्सर्गः

कालठ्याख्ये ग्रामवर्ये द्विजाग्र्यः
सत्सन्तोषी केरलेष्वातिथेयः ।
जज्ञे कर्ता कर्मणां चोदितानां
त्यक्ता नित्यं निन्दितानां विनीतः ॥ १ ॥

स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी ।
सायं प्रभातञ्च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥ २ ॥

क्रियाद्यनुष्ठानफलोऽर्थबोघस्स नोपजायेत विना विचारम् ।
अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥ ३ ॥

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्तस्सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ ४ ॥

भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालसःस्यात् ।
गत्वा कदाचित् स्वजनप्र​मोद विधेहि मा तात विलम्बथाः स्म ॥ ५ ॥

विधातुमिष्टं यदिहपराह्णे विजानता तत्पुरुषेण पूर्वम् ।
विधेयमेतद्यदिह श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ॥ ६ ॥

कालोप्तबीजादिह यादृशं स्यात् सस्यं न तादृग्विपरीतकालात् ।
तथा विवाहादि कृतं स्व​काले फलाय कल्पेत न चेद्वृथा तत् ॥ ७ ॥